SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ देशान्तरपरिभाषावर्णनम् २६४५ आचूडाकरणाद्वाल आदन्ताच शिशुः स्मृतः । कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनात् ॥१३०।। विवाहबतयज्ञेषु त्वन्तरामृतसूतके । पूर्वसंकल्पितार्थानि भोज्यानि मनुरब्रवीत् ॥१३॥ विवाहचौलोपनयने यस्य माता रजस्वला । तस्याः शुद्धः परं कायं मांगल्यं मनुरब्रवीत् ॥१३॥ एकविंशत्यहर्यज्ञे विवाहे दश वासराः । पञ्चाहश्वोपनयने नान्दीश्राद्धं पुरो भवेत् ॥१३३।। विवाहवतयज्ञेषु अन्तरामृतसूतके । प्रारब्थे सूतकं न स्यादनारब्धे तु सूतकम् ॥१३४।। प्रारंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः । विवाहे मातृपूर्व स्याच्छाद्ध पाकपरिक्रिया ॥१३।। निमन्त्रिते यदा विप्रे श्राद्धकर्मण्युपस्थिते । विधिना चैव तत्काय नाशौचं नैव सूतकम ।।१३।। मुंजानेषु विप्रेषु सूतकं जायते यदि । अन्यगेहोदकाचान्ताः सर्वे ते शुद्धिमाप्नुयुः ॥१३७|| देशान्तरे मृतः कश्चिन सपिण्डः श्रूयते यदि । न त्रिरात्रमहोरात्रं सद्यः स्नात्वा विशुध्यति ॥१३८।। देशान्तरं तु विज्ञयं पष्ट्रियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशदन्ये विपश्चितः ॥१३९।। वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः । महानद्यन्तरं यत्र तद्देशान्तरमुच्यते ॥१४॥ १८५
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy