________________
२६४४
दाल्भ्यस्मृतिः चतुर्थे दशरात्रं स्यात् षण्णिशाः पुंसि पञ्चमे । षष्ठे चतुरहं प्रोक्तं सप्तमे तु दिनत्रयम् ॥११।। एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । व्यहात् केवलवेदज्ञस्तद्धीनो दशभिदिनैः ॥१२०।। मन्त्रकर्मपरिभ्रष्टाः संध्योपासनवर्जिताः । नामधारकविप्राणां भस्मांतं सूतकं भवेत् ॥१२॥ संपर्काज्जायते दोषो नाऽन्यो दोषोऽस्ति ब्राह्मणे । तस्मात् सर्वप्रयत्नेन संपकं नैव कारयेत् ॥१२२।। आदावारभ्य आशौचं संयोगो यस्य नाग्निषु । आदावन्ते च विज्ञेयं यस्य वैतानि को विधिः ॥१२३।। शवसूतकमुत्पन्न पश्चाज्जातं न सूतकम् । शावेन शुध्यते सूतिः सूत्या शावं न शुध्यति ॥१२४।। जातं जातेन शुद्ध स्यान्मृतकं मृतकेन तु । न जाते मृतशुद्धिः स्यान्न मृते जातकं तथा ॥१२॥ मातुर प्रमीतिः स्यादशुद्धौ म्रियते पिता। पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ।।१२६।। स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाः शौचवर्जिताः । पाते मातुर्दशाहः स्यात्सपिण्डानां दिनत्रयम् ॥१२७।। आचतुर्थाद्भवेत्सावः पातः पञ्चमषष्ठयोः। । अत ऊवं प्रसूतिः स्यात् सूतकं तु यथोदितम् ।।१२८।। शिशोरभ्युक्षणं प्रोक्त बालस्याचमनं तथा।। रजस्वलायाः संस्पर्श स्नानमेव कुमारके ॥१२६।।