________________
आशौचनिर्णयवर्णनम्
२६४३ कथंचिद् वृषभं हत्वा होमधेनु तथैव च । अन्नं तु द्विगुणं कुर्यादक्षिणा द्विगुणा भवेत् ॥१०॥ राजा वा राजमान्यो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ॥१०६।। केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्ण द्विगुणा दक्षिणा भवेत् ॥११०॥ द्वौ मासौ पालयेद्वत्सं द्वौ मासौ द्वौ स्तनौ दुहेत् । द्वौ मासौ चैकवेलायां शेषं कालं यथेच्छया ॥१११।। औषधं पथ्यमाहारो दद्याद्गोब्राह्मणेषु च। वैकल्यतः (ल्पतः?) विपत्तौ च प्रायश्चित्तं न विद्यते ॥११२॥ निशिबन्धविरुद्धषु व्यावसर्पहतेषु च। अग्निविद्यु न्निपातेषु प्रायश्चित्तं न विद्यते ॥११३।। स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा । वदन्त्यनुग्रहं ये वै तत्पापं तेषु गच्छति ॥११४॥ बलत्वेन दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव तु शुद्धिः स्यान्न शौचं नैव सूतकम् ॥११५।। आदन्त जन्मनः सद्य आचूडान्नैशिकी स्मृता । आव्रतात्तु त्रिरात्रं स्याद्दशरात्रमतः परम ॥११६।। आचूडाकरणात सद्यः प्रदानान्नैशिकी स्मृता । आविवाहात्रिरात्रं स्याद्दशरात्रमतः परम् ॥११७।। अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुवन्ते वाम्यनूचानमातुलश्रोत्रियेषु च ॥११८।।