________________
२६४०
दालभ्यस्मृतिः समत्वमागतस्यापि पितुः शस्त्रहतस्य च । एकोद्दिष्ट सुतैः कार्य चतुर्दश्यां महालये ॥७।। महालये गयाश्राद्ध मातापित्रोः क्षयेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिंडदानं यथाविधि ॥७६।। एकोद्दिष्ट . दैवहीनमेकाध्यकपवित्रकम् । आवाहनानौ करणरहितं त्वपसव्यवत् ॥७७|| संकल्पं तु यदा कुर्यान्न कुर्यात्पा.जपूरणम् । नावाहनानौ करणं पिण्डांश्चैव न दापयेत् ॥७॥ विवाहव्रतबंधोवं वर्षमब्दार्धमेव वा। पिण्डान्सपिण्डान् नो दधु न कुर्युस्तिलतर्पणम् ॥७६।। नित्यश्राद्धमदैवं स्यादर्घ्यपिण्डविवर्जितं । आमश्राद्धं तु नैव स्याच्छूद्रः कुर्यात्सदैव हि ॥८॥ अपत्नीकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धो द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हि ॥८॥ या संख्या पक्कपाकस्य शुष्कं तद्विगुणं भवेत् । चतुर्गुणं हिरण्यं तु श्राद्धकर्मणि संस्थितम् ॥२॥ मातुः श्राद्धं तु पूर्व स्यात् पितृणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥८३।। दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुक् द्विजः । ततः सन्ध्यामुपासीत होमं चैव यथाविधि ॥८४।। चान्द्रायणं नवश्राद्ध पाराको(?) मासिके मतः । पक्षत्रयेऽति कृच्छू स्यात् षण्मासे कृच्छ्र एव तु ।।८।।