________________
श्राद्धकरणपुत्रस्याधिकारित्वम् प्रत्यब्दं पार्वणे नैव विधिना क्षेत्रजोरसौ । कुर्यात्तामितरे कुयुरेकोद्दिष्ट सुतादश ॥६४|| द्वौ दैवे प्राक्त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥६॥ बहूनामपि बन्धूनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥६६॥ बहूनामेक भार्याणामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रवत्य इति स्थितिः ॥६७।। अष्टकासु च वृद्धौ च प्रेतपक्षे क्षयेऽहनि । मातुः श्राद्ध पृथक् कुर्यादन्यत्र पतिना सह ॥६८।। अन्वष्टक्यं च पूर्वार्मासि मास्यथ पार्वणम् । काम्यमाभ्युदयमाष्टम्यामेकोदिष्टमथाष्टमम् ॥६।। चतुर्थाद्य षु साग्नीनामग्नौ होमो विधीयते । पित्रियद्विजपाणौ च उत्तरेषु चतुर्ध्वपि ॥७०|| यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥१॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेणव हता ये तु तेषां तत्र प्रदीयते ॥७२।। मासिकेऽब्दे तु संप्राप्त अंतरामृतसूतके । वदन्ति शुद्रौ तत्कायं दर्श वापि मनीषिणः ॥७३।। श्राद्ध ऽहनि समुत्पन्ने मृतस्याविदिते दिने । एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥७४।।