________________
२६३८
दाल्भ्यस्मृतिः निः पावा राजमाषाश्च नन्ति श्राद्ध पतत्यधः । श्राद्ध वै मृन्मय(मृण्मयं पात्रं मृत्तिकायाश्च लेपनम् ।।३।। साज्यं धूपं घृतं चैव निराशाः पितरो गताः । क्षारस्य तु यल्लवणमुच्छिष्टस्य तु यद्धृतम् ॥४|| मुखेन श्रमितं भुंक्त द्विजश्चान्द्रायणं चरेत् । अंगुल्या दन्तधावेन प्रत्यक्ष लवणेन च ॥५।। मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् । श्राद्धं कृत्वा परश्राद्धे यस्तु भुञ्जीत लोलुपः ॥५६।। पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः। श्राद्धं कृत्वा तु यो विप्रो नैव भुंक्त कदाचन ॥५७।। हव्यं देवा न गृह्णन्ति कव्यानि पितरस्तथा । पुनर्भोजनमध्वानं भाराध्ययनमथुनम् ॥५६॥ दानं प्रतिग्रहो होमः श्राद्धभुगष्ट वर्जयेत् । श्राद्ध नियुक्तो भुक्त्वा च भोजयित्वाभिगम्य च ॥५६।। व्यवायी रेतसो गर्ने मन्जयत्यात्मनः पितृन् । देवपूर्वभवेच्छ्राद्धमदैवं चापि यद्भवेत् ॥६॥ ब्रह्मचारी भवेद्भुक्त्वा भुक्त्वा श्राद्धच नेत्तिकम् । पितृपात्रं समुत्सृष्ट्वा (ज्य)पिण्डास्तत्र प्रदापयेत् ।६।। अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषास्तधा । तेषां श्राद्ध तु कर्तव्यमेकोदिष्ट (?) पार्वणम् ॥६२।। सूतकांतरितं श्राद्धं प्रमादाद्गलितं तथा । तदिनाद्वादशाहे वा कुर्यात् तन्मासपर्वणि ॥६३।।