SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ पाडशश्राद्धवर्णनम २६३५ यष्ठव्या बहवः पुत्रा यद्य कोऽपि गयां ब्रजेत । यजेत वा अश्वमेधं नीलं वा वृषमुत्सृजेत् ॥२०॥ लोहितो यस्तु वर्णन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलो वृप उच्यते ॥२शा प्रथमेऽह्नि तृतीये च पंचमे सप्तमे तथा । नवमैकादशे श्राद्ध तन्नवश्राद्धमुच्यते ॥२२॥ नवश्राद्ध त्रिपक्षे च षण्मासे मासिकाब्दिके। पतन्ति पितरस्तस्य यो भुङ्क्त चापदि द्विजः ॥२३॥ मासिकानि यश द्वस्यादाद्यष्टे ह्यर्धमासिके । उनषाण्मासिको नाब्दे श्राद्ध संख्यास्तु पोडश ||२४|| मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥२५॥ यस्यैतानि न कुर्वीत एकोदिशानि पोडश । पिशाचत्वं स्थिरं तस्य दत्तः श्राद्धशतैरपि ॥२६॥ सपिण्डीकरणादूध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्यादेकतस्तु क्षयेऽहनि ॥२७॥ एकोद्दिष्टं परित्यज्य पार्वणं कुरुते तु यः । अकृतं तद्विजानीयात्समातृपितृघातकः ॥२८॥ नित्यं नैमित्तिकं कायं नित्यं तु परिलंघयेत् । आदौ नैमित्तिकं कुर्यात्पश्चान्नित्यं समाचरेत् ।।२।। अमायां तु क्षयो यस्य प्रेतपक्षेऽथवा यदि। . सपिण्डीकरणादूचं तस्योक्तः पार्वणो विधिः ॥३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy