________________
२६३४
दाल्भ्यस्मृतिः अग्निहोत्रं तपः सत्यं देवानां प्रतिपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ।। इष्टापूतौं द्विजातीनां सामान्यौ धर्मसाधको । अधिकारी भवेच्छद्रः पूर्ने धर्म न वैदिके ॥१॥ यावदस्थीनि गंगायां तिष्ठन्ति पुरुषस्य च । तावद्वपंसहस्राणि स्वर्गलोके महीयते ॥११॥ देवानां च पितृणां च जले दद्याजलाञ्जलीन् । असंस्कृतप्रमीतानां स्थले दद्याजलाञ्जलीन् ॥१२।। केशकीटकशंबूकमस्थिकंटकमेव च ।। स्थलेषु च न दातव्यं कदाचिदशुचिर्भवेत् ॥१३।। वामहस्ते तिलान् स्थाप्य यस्तु तर्पयते पितॄन् । पितरस्तर्पितास्तेन रुधिरेण जलेन वा ॥१४॥ एकादेव(मेव) ऋषीणां तु द्वौ द्वौ तु सनकादयः । अर्हन्ति पितरस्त्रीन्त्रीनस्त्रियश्चैकैकमंजलिम् ॥१५॥ नाभिमात्रे जले स्थित्वा सतिलं दक्षिणामुखः । त्रीस्त्रीनपोऽञ्जलीन् दद्यादुच्चैरुच्चतरं द्विजः ॥१६।। जले चैव जलं देयं पितणां जलकाक्षिणाम् । ततःस्थलेषु दातव्यं पितॄणां नोपतिष्ठति ॥१७|| नोदकेषु च पात्रेषु नाशुद्धो नैकपाणिना । नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥१८॥ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकाच्च स्वर्गलोकं स गच्छति ॥१६॥