SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः ॥ * दाल्भ्यस्मृतिः * दाल्भ्यम्प्रतिषीणां धर्मविषयकः प्रश्नः कृताभिषेकं दालभ्यं स्वे आश्रमे समुपस्थितम् । परिपृच्छन्ति तत्वज्ञं ऋषयो वेदपारगाः ॥१॥ धर्माधर्मविवेकं च शुद्धिर्जातमृतस्य च । आयुष्यानि च तीर्थानि मासशुद्धिस्तथैव च ॥२॥ श्राद्धकालं च ब्रह्मनगोनचण्डालसंकरम् । रसानां परिवेत्ता च कथयस्व यथायथम् ॥३॥ स्मृतिसारं प्रवक्ष्यामि यथा शङ्खन भाषितम् । इष्टापूर्तविधिश्चैव प्रायश्चित्तविधिस्तथा ॥४॥ इष्टापूतौ तु कर्तव्यौ ब्राह्मणेन प्रयत्नतः । इष्टेन लभते मोक्षं पूर्ते स्वर्गोऽभिधीयते ॥५॥ एकाहमपि कौन्तेय भूमिस्थमुदकं कुरु । कुलानि तारयेत्सप्त यत्र गौ वितृषा भवेत् ॥६॥ भूमिदानेन ये लोका गोदानेन च कीर्तिताः। तान् लोकान् प्राप्नुयान्मर्त्यः पादपानां प्ररोहणे ॥ ७॥ वापीकूपतड़ागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy