________________
२६२८
कण्वस्मृतिः सर्वस्वहरणं कृत्वा तयोः पूर्व निबन्धनाम् । चाञ्चल्यरहितां कृत्वा देशात्तस्मात्प्रवासयेत् ॥७४४॥ परस्मै पुत्रदाने तु महते तादृशं पुनः । बाधकं शास्त्रतो ज्ञेयं पुत्रीदाने तु साधकम् ॥७४५॥ दौहित्रः कर्ता(?) तनयश्चापि सर्वशास्त्रसमौ मतौ । विभक्तेषु तु तद्भातमुखेषु किल तत्परम् ॥७४६॥ स्वर्यातस्य ह्यपुत्रस्य कर्ता दौहित्र उच्यते । दौहित्रस्य तु कर्तृत्वं स(पुन) ( (स) पुत्रयोः ॥७४७॥ अभावे कथितं सद्भिः स्युश्चेत्ते तु एव हि । तेषामभावे दौहित्रो भ्रात्पुत्रेषु सत्सु चेत् ॥७४८।। अविभक्तषु तैः सर्वैस्तन्मुखेनैव केवलम् । सवं कारयितव्यं स्यात्प्रेतकृत्यमशेषकम् ॥४६॥ नायं तद्धनभागी स्याज्ज्ञातयो धनभागिनः । यत्किचित्तैः प्रीतिदत्तमस्य तद्भवति ध्रुवम् ॥७५०।। न चेकिमपि नास्त्येव विभक्तषु तु तेषु वै । तद्धनं निखिलं चास्य धर्मतः प्रभवेद्ध वम् ॥७५१॥ यत एवमिति प्रोक्त पुत्राभावे तु चोदितः । प्रीत्यासन्नस्सपिण्डो यः कर्ता स इति निश्चयः ॥७५२।। प्रीत्यासन्नस्सपिण्डत्वं दौहित्रस्येद मुख्यतः(मुच्यते)। इति तेषां सपिण्डानाममुख्यं तेन केवलम् ॥७५३।। अङ्गादङ्गात्संभवति पुत्रवद् दुहिता यतः । तत्संभूतस्तु दौहित्रो भ्रातृपुत्रादयस्तथा ॥७५४॥