________________
वंशोद्धरणायदत्तकविधानवर्णनम् २६२७ तन्मार्गेणैव कुर्वीत ततो मातामहाश्च वै। पितामहस्य एतेऽस्य चैतस्यापि मृतौ पितुः ॥७३३।। तथैवाशौचमित्युक्त एवं किल महत्तरम् । अत्यन्तबाधकं करमन्यगोत्रसुतस्य वै ॥७३४॥ परिग्रहे प्रकथितं ततस्त्वेतन्न चाचरेत् । स्वभ्रातृषु स्वगोत्रे च कृते पुत्रपरिग्रहे ॥७३।। न किंचिद्बाधकं तत्स्यात्तस्मादेतच्छिवं बुधः । समीक्ष्य सम्यगालोच्य पुत्रभावे प्रयत्नतः ॥७३६।। स्वीकुर्याद् भ्रातृपुत्रादीन् तत्समाधानपूर्वकम् । यद्यत्तत्रार्थितं दद्याद्ह्यात्मनः पुत्रसंशये ॥७३७।। सर्वस्वं वा तस्य दत्वा तादृशी समये परम् । गृह्णीयात्तनयं वंशोद्धरणाय विचक्षणः ॥७३८।। पुत्रस्वीकारसमये यद्यदुक्तं पुरा तयोः । न तस्यास्त्वन्यथाभावः कदाचिदपि धर्मतः ॥७३॥ तदुक्तिलंघनकराः ब्रह्मन इति सूरिभिः । कथितो हि ततस्तं वै राजा राष्ट्रात्प्रवासयेत् ॥७४०।। तनयग्रहणे यो वा तत्पित्रोः प्रार्थितं तदा। दत्वा शपथपूर्व वै पुनरन्यानि भाषते ॥७४१।। पुनश्च पुत्र संजाते चिराद्देवेन दुर्मतिः । तमेनं धार्मिको राजा तद्वन्धूंस्तत्परान्खलान् ॥७४२॥ तदुन्मुखांस्तत्सहायान् संताड्य च कपोलयोः। न्यक्कृत्य भीषयित्वा च यथायोग्यं यथा मति ॥७४३।।