________________
२६२२
कण्वस्मृतिः कल्याणं पुत्रयोः कृत्वा द्वौषण्मासं ततः परम् । पित्रोविना मृताहं तु अन्यदर्शादिकं तु यत् ॥६७८।। दूर्वाक्षताभ्यां तत्सव कुर्यादेवाविचारयन् । यदि दूर्वाक्षतांस्त्यक्त्वा कारुण्यानां पितृक्रियाम् ॥६७६।। पितृव्यमातुलादीनामपि दर्शादिकं च यत् । तदादिकं दर्भतिलैःषण्मासं शुभात्परम् ॥६८०॥ पुत्रयोः स्वस्य वा मूढः सदादुःखी भवेदयम् । तस्मात्पैतृककृत्येषु स्वस्य वा पुत्रयोः शुभात् ॥६८१॥ षण्मासमध्यप्राप्तषु दर्शनैमित्तिकादिषु । दूर्वाक्षताः प्रशस्ताः स्युन दर्भा न तिला अपि ॥६८२।। पुत्रीविवाहः परमो विवाहात्तनयस्य वै । यतन(तनयः) स्वगृहेसम्यक्क्रियतेऽन्यत्र तस्य चेत् ॥६८३।। तस्मात्पुत्र विवाहस्य षण्मासात्तु परं तराम् । शुभकर्मसमाचारः स्वनुष्ठ यो विपश्चिता ॥६८४॥ पुत्रोपनयनं तस्माद्विवाहात्तस्य कर्मणः। शुभाचरणनाम्ना वै सततं ह्यतिरिच्यते ॥६८।। यतो विवाहं पुत्रस्य स्वीकृतो हि गृहान्तरे । तस्मादविवाहात्तु दुर्बलं नित्यमेव हि ॥६८६।। अथापि सम्यक्कुर्वीत विवाहात्तु तयोः परम् । शुभाचरणकर्माख्यषण्मासं च शनैश्शनैः ॥६८७।। तत्क्रमाञ्चापि वक्ष्यामि मन्दवारे च सौम्यके । वरयोरुत्सवं कुर्यान्मङ्गलस्नानपूर्वकम् ॥६८८।।