SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ब्रह्मादीनांपूजावर्णनम् २६२१ स्तंभपूजां चतुर्दिक्षु नमोऽन्तेनैव चोदिता। पुष्पधूपादिनैवेद्यांतं वै तां तु समाचरेत् ॥६६७॥ ब्रह्मादीनां ततः पूजां पञ्चानामत्र कारयेत् । नवानामत्र कल्याणे प्रत्यक्षान्नं निवेदनम् ॥६६८।। भक्ष्यभोज्यैः फलैर्दिव्यैस्तांबूलैश्च सदीपकैः । नीराजनान्तैः कर्तव्यमन्यथाऽल्पायुरेव हि ॥६६॥ भवेदेव वरस्सेव्यो वधूः पश्चात्क्रमेण चेत् । हरिद्रा. स्युर्बान्धवाश्च तथा तस्मात्समाचरेत् ॥६७०॥ हरिद्रामिश्रसलिलदेवता किल चोदिता। वसन्तश्शोभनकरस्तस्य पूजा पराऽत्र वै ॥६७१॥ विशेषेण प्रकर्तव्या भाज्यबाहुल्यसिद्धये । देवतोद्वासनं कुर्याद्यज्ञेनेति च मन्त्रतः ॥६७२।। मोचनं कौतुकस्याथ तत्संपूज्याथ तच्चरेत् । पुण्याहं वाचयेत्पश्चाद् ब्राह्मणानपि भोजयेत् ॥६७३।। स्वीकुर्यादाशिषश्चापि दक्षिणादानपूर्वकम् । य एवं विधिना भव्यं कुरुते ब्राह्मणोत्तमः ॥६७४।। तस्य नन्दन्ति ते सर्वे वृद्धा ये प्रपितामहाः । पितामहाश्च ये वृद्धा वृद्धा ये पितरस्तथा ॥६७।। त एते शुभदेवाः स्युः सप्तएते (१) कुलोद्भवाः।। तेषां तुष्टया कुलस्यास्य प्रवृद्धिर्जायते परा ॥६७६।। एतेनैव विधानेन तस्मात्कल्याणसन्ततम् । मर्त्यः कुर्वीत सततं नित्यकल्याणसिद्धये ॥६७७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy