________________
२६२०
कण्वस्मृतिः जलाक्षताभ्यां संस्कृत्य पूजयित्वासतानपि । ऐरावतं च संपूज्य दक्षिणे चोत्तरे तथा ॥६५७।। सुप्रतीकं धराधारं त्रिःपरिक्रम्य तत्परम् । प्रति प्रति प्रवादाभ्यां विनियम्य परस्परम् ॥६५८॥
(न तत्सौमङ्गल्यवधथा) कृष्णान्मणींश्च तत्कण्ठे तद्देवानां च सन्निधौ । बनीयाद्गीतवादित्र पुरंध्रीगानपूर्वकम् ॥६५६।। ततः पुनश्च संकल्प्य फलदानानि चाचरेत् । तथा तांबूलदानानि दक्षिणादीनि शक्तितः ॥६६०।। ब्राह्मणेभ्यः प्रकुर्वीत तच्चालंकारपूर्वकम् । सभापूजां च कुर्वीत तदाशीः प्राप्य तत्परम् ॥६६१।। दम्पती चोपवेश्योभौ दम्पती पूजनक्रियां । प्रकुर्यातां विधानेन तदीयामाशिषां शिवाम् ॥६६२।। खीकुर्वतां तत्परं च दद्यात्ताभ्यां च दक्षिणाम् । तांबूलं च क्रमेणैव सर्वेषां च द्विजन्मनाम् ॥६६३।। तत्रत्यानां च सर्वेषां तांबूलं चापि दक्षिणाम् । शक्त्या लोभन दद्याश्च मञ्चारोहणमेव च ॥६६४।। डो(दो)लोत्सवोऽपि कर्तव्यो महाचूर्णोत्सवस्तदा । वीथीप्रदक्षिणं चापि पुनर्वेश्मप्रवेशनम् ॥६६॥ जलक्रीडाविधानं च तांबूलस्य च भक्षणम् । मध्याहे मङ्गलस्नानं पुनश्च स्वस्तिवाचनम् ॥६६६॥