________________
२६१८
कण्वस्मृतिः दौर्ब्राह्मण्यं कुले तेपां नास्त्येवादशपूर्वकम् । सवं यागप्रतिनिधिः कल्पोऽयं कश्चन स्मृतम् ॥६३५।। ब्राह्मणानां पुरा सृष्टं ब्रह्मणैव महात्मना । वेदक्रियासुचालस्यायेऽपि वातीवदुहृदः ॥६३६।। तेषामपि हितार्थाय महाशीरियमुत्तमाम् । सृष्टा किलातिचपलं सर्ववेदस्वसारतः ॥६३७।। समुद्धृत्य समुद्धृत्य चैकीकृत्य च तां चिरात् । प्रकाशिता जगत्यत्र तदेतत्तादृशं शिवम् ॥६३८।। महत्तु वैदिकं कर्म ब्राह्मणानां सुमेधसाम् । यद्यत्र शोभने तस्यः वस्त्रं कौतुकमुत्तमम् ॥६३६।। वध्वाहतस्य माङ्गल्यं वहिपृष्टं भवेद्यदि । दग्धमान्तं तथाधं वा यत्किंचिदपि वा पुनः ॥६४०।। उपदीकाहताः केशाः मूषकैर्वापि दंशिताः । द्वषाच्छन्तुभिरुत्कृन्ता येषां तेषां च कर्मणाम् ॥६४१।। आयुष्यसूक्तपठनं लक्ष्मीसूक्तस्य वै तदा। पुनर्वस्त्रान्तरादीनां तत्तन्मन्त्रैः परिग्रहः ॥६४२॥ निष्कृतिविहिता सद्भिर्वेदविद्भिद्विजोत्तमैः । यदि चण्डालसंस्पर्शो वरयोः संभवेत्तदा ॥६४३।। तदास्यान्मङ्गलस्नानं हरिद्रोष्णजलेन तु। यदि श्वकाकसंसृष्टिस्तदुष्णेनैव वारिणा ॥६४४|| हरिद्रामिश्रिते नैव घृतेन च विधीयते । नानात्परं रुद्रजपत्रिवारं निष्कृतिर्मता ॥६४५।।