SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ २६१४ कण्वस्मृतिः पात्राभिधारणं कृत्वा परिवेषणमादितः । प्रकुर्यात्तत्सतीगानपूर्वकं भोजनेऽन्वहम् ॥५६१।। बन्धूनां तत्र भोक्तृणां द्विजानां च महात्मनाम् । पयस्वाज्येषु दिव्येषु दधिरम्येषु भूरिषु ॥१२॥ परयोः सन्निधौ भुक्तौ वैश्वदेवैकवर्जनात् । यदत्र वृजिनं तन्न लक्ष्मीनारायणौ हितौ ॥५६॥ तत्सन्निधानाद्गौर्याश्च शच्याशोभनगिर्वणाम् । आसन्निधाने वरयोरपङ्क्तो भोजने तराम् ॥५६४|| कृच्छत्रयं प्रकुर्वीत ताभ्यां चेद्भोजने कृते । नैतत्किमपितत्प्रोक्त पायसं कुसरं विना ॥५६।। नाचरेद्विदुषां मुक्तिं भक्ष्याभावे ह्ययं विधिः । सत्सु भक्ष्येषु दिव्येषु परमान्नेषु भूरिषु ॥५६६।। नैवकश्चित्तरामत्र नियमो भनुरब्रवीत् । विप्रमध्ये सतीमध्ये विधवां नैव भोजयेत् ॥५६॥ कल्याणवेदिकामध्ये तेषु सर्वदिनेष्वपि । येषु केषु दिनेष्वेषु सतीषु ब्राह्मणेषु वा ॥५६८|| अकेशीर्वा सकेशीर्वा एतानेवौपवेशयेत् । न गाययेद्वा चैताभिर्गायन्ती,निषेधयेत् ॥५६॥ अपि ताभिः कृतं पाकं यत्नेनैव विवर्जयेत् । चौले चोपनये चापि ताभिरप्याहृतं जलम् ॥६००।। कुमारभोजनेऽप्येवं तथा ब्रह्मौदने शिवे । नाङ्गीकुर्यात्तु पाकाय ताभिर्नाग्निं न चानयेत् ॥६०१॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy