________________
२६१२
कण्वस्मृतिः दण्डं छत्रं वैणवं च तिरस्करणिकामपि । विचित्रामध्वगां कृत्वा चतुर्भिः षड्भिरुत्तमैः । ५६६।। अष्टभिर्वा द्विजैर्धारर्वेदघोषपुरस्सरम् । गीतवादित्रसंघेश्च सर्वमङ्गलसंवृतः ॥५७०।। बहिर्गच्छेत्तदागच्छेत्सायं प्रातश्च वर्षति । न चरेन्नैव निर्गच्छेन्न तुषारेऽतिधर्मके ॥५७।। न तप्तायां धरायां वा सोपानकोऽपि मङ्गले । नार्द्रायां कर्दमेवाऽपि गच्छेदपि च सङ्कटे ॥५७२।। अवशादागतं दैवात्सूतकं मृतकं त्यजेत् । इन्द्राण्युद्वासनात्तद्वदाकङ्कणविमोक्षणात् ॥५७३।। लक्ष्मीनारायणध्यानपरत्वेन सदा भवेत् । इन्द्राणीमपि गौरीणां सायं प्रातः समर्चयेत् ॥५७४|| यदि मोहेन तेनार्चे नित्या मङ्गलभाग्भवेत् । नित्यमोपासनं कृत्वा बृहत्सामेति मन्त्रतः ॥५५५।। तद्भस्मना प्रकुर्वीत स्वरक्षां तद्विधानतः। प्रयतानामिकाङ्गुल्या चेमांत्वमितिमन्त्रतः ॥५७६।। वध्वारक्षां प्रकुर्वीत शुभिके शिरमन्त्रतः । यामाहरेति मन्त्रेण मालिकामपि च स्रजम् ॥५७७|| बिभृयादपि(च)याने)न नीराजनरतश्च वै। तदा तदा च तन्मध्ये विप्राशीरपि सन्ततम् ॥५७८।। अत्यन्तावश्यकी ज्ञेया मङ्गलेषु पदे पदे। आगतानां विशेषेण बन्धूनां च द्विजन्मनाम् ॥५७६।।