SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ वेदानामध्ययनमनुगृहस्थाश्रमप्रवेशवर्णनम् २१०६ तुभ्यन्ताद्यास्तथा प्रोक्ता दिवश्येनादयश्च ताः । स्वाद्वीन्तानर्वनग्नेन इति प्रश्ना यथाक्रमम् ॥५३६।। सौत्रामण्यच्छिद्रनक्षत्रेष्टयः समुदाहृताः। . उभावामादयोत्यानुवाका व्यधिकविंशतिः ॥५३७।। युक्ष्वाहीत्यनुवाकश्च याज्या विद्वद्भिरीरिताः । वेदव्रतानि कृत्वैवं स्नानं कुर्याद्विधानतः ।।५३८।। विधानेन ततो यत्नालक्षण्यां त्रियमुद्हेत् । प्रधानहोमं निर्वा वाहयेत्तां समन्त्रकम् ॥५३६।। सम्यक् प्रवाहारयेद्वा वह्निमाहृत्य गोपथे । स्वधाम च विधानेन समागत्या विलम्बयन् ॥५४०।। गृहप्रवेशहोमाख्यं कुर्यादेवसमन्त्रकम् । स्थालीपाकं तथाग्नेयं विधानेन समाचरेत् ॥५४१।। कन्यादातगृहात्तस्य निर्गतस्य शनैश्शनैः । मार्ग चंक्रमतो मन्त्रैः कुर्वाणस्य च तत्त्रियाः ॥५४२।। दिनानि यानि मार्गे स्युस्तेषु कालद्वयेऽन्वहम् । गुप्तिहोमः प्रकर्तव्यो विवाहाग्नेविशेषतः ॥५४३॥ अकृते तु पुनस्तस्मिन्सोऽयमग्निविनश्यति । पुनः प्रधानहोमस्य प्राप्तिरेव भविष्यति ॥५४४।। पुनस्तदग्निसिध्यर्थमियं निष्कृतिरुच्यते। नान्यत्र निष्कृतिः प्रोक्ता गुप्तिहोमं ततश्चरेत् ॥५४५।। गुप्तिहोमं करिष्येति वह्नः संरक्षणाय मे। संकल्प्यैवं विधानेन परिषिच्य समन्त्रकम् ॥५४६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy