________________
२६०८
कण्वस्मृतिः पाकयज्ञमितिप्रश्नसप्तमाद्याःषडीरिताः। अनुवाकानाजपेयुस्तद्विधीन्प्रथमाष्टके ॥५२।। प्रश्ने द्वितीये. देवा वै यथेत्यष्टौ प्रचक्षते । एवं नवोदिताः काण्डाः सौम्यानाहुर्मनीषिणः ।।५२६।। अग्न्याधानं प्रथमतः अग्निहोत्रं ततः परम् । अग्न्युपस्थानमित्येव महाग्निचयनं तथा ॥५२७।। सावित्रं नाचिकेतश्च चातुर्होत्रं ततः परम् । वैश्वसृजोरुणायेति तद्ब्राह्मणमतः परम् ॥५२८।। अनुब्राह्मणमेवं च सप्ताग्नेयानि चोचिरे। राजसूयः प्रथमतः पशवः स्युस्ततः परम् ॥५२६।। इष्टयः स्युस्ततः सर्वा नक्षत्रेष्टिः परातनः । दिवश्येना अपाघाश्च सूक्तवाकानि तानि च ।।५३०।। उपानुवाक्यं च तथा याज्यानुवाक्यास्तथा पराः । नरमेधोऽश्वमेधश्च पशुबन्धस्तथैव च ॥५३१।। ब्रह्ममेधस्तथा कृत्यं सौत्रामणिरथक्रमः। अन्छिद्रमखिलं चापि वैश्वदेवाख्यकाण्डकम् ।।५३२।। सम्यक् षोडशसंख्याकं सर्वाण्येतानि कालतः । प्राप्तान्येव भवेयुर्हि कार्याणि ब्राह्मणेन हि ॥५३३।। आद्यकाण्डाष्टमः प्रश्नः राजसूयः प्रकीर्तितः । तद्ब्राह्मणं त्रयः प्रश्नाः षष्ठाद्याः प्रथमेऽष्टके ।।५३४।। वायव्यं काम्यपशवः परे काण्डष्टयस्त्रयः। सौत्रामण्यच्छिद्रनक्षत्रेष्टयः समुदाहृताः ॥५३५।।