________________
नानानुवाकानामवर्णनम्
।।५१८।।
याजमानं द्वितीयं स्याद्धोतारश्च तृतीयकम् । हौत्रं चतुथं संप्रोक्तं पितृमेधश्च पश्चमम् ||१४|| एतेषां ब्राह्मणानि स्युरनुब्राह्मणमेव च । काण्डत्रयं प्रकथितं नवकाण्डं च चोदितम् ||५१५ || तस्यास्य नवकस्यापि उपाकृतिरथापरम् । उत्सर्जनं च कथितं समारंभे समापने ॥ ५१६ || तद्रूयं (भूयः १) चोदितं सद्भिरेवं सौम्यस्य तत्परम् । आध्वर्यवं ग्रहश्चापि दक्षिणा च ततः परम् ||५१७ || समिष्टयजूंषि तत्पश्चादवभृथयजूंष्यपि । वाजपेयशुक्रियाणि सवश्चेति ततस्तथा ब्राह्मणानि च तेषां वै सौम्यानि स्युर्मनीषिणः । आप उन्दन्नु (न्तु) देवस्य प्रश्वद्वितयमध्वरः ॥ ५९६ ॥ सजोषा इन्द्रपर्यन्ता आदधे प्रमुखाग्रहः । ब्रह्मसंपदमानोनुवाकावध्यध्वरौ मतौ ||५२०|| उदुत्यमनुवाकांस्त्रीन् दक्षिणामूचिरे बुधाः । ब्राह्मणत्रयमेतेषां षष्ठकाण्ड उदाहृतः ॥५२१|| सत्रात्प्राचोऽनुवाकांस्त्रीनपि तद्ब्राह्मणं विदुः । उभये वै प्रश्न आद्य पञ्चमौ षष्ठसप्तमौ ॥५२२|| अग्ने प्रपाठके तुर्यमन्तिम श्चतुरस्तथा । अध्वरब्राह्मणं प्राहुरनुवाकानिमानपि ॥५२३|| त्रिवृत्सोम इति प्रश्नः सवाख्यः परिकीर्तितः । नमोवाचे तदूव तु प्रश्नौ शुक्रिय तद्विधिः || ५२४।।
२६०७