SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ २६०६ कण्वस्मृतिः नित्यं कर्तुं भवेद्भूयस्त्वतीतेषु दशस्वपि । अहन्येकादशदिने नामकरणाख्यकर्मणा ॥५०३।। कतु तश्च कृते भूयस्तञ्च नामाख्यकं परम् । तत्परस्मिन्नपि दिने कतुं वै शक्यते दिने ॥५०४।। दिनेऽतीते द्वादशे तु भक्तप्राशनकर्मणा । सहैव विहितं शास्त्रान्न पृथग्भिन्नकालतः ॥५०॥ मासि षष्ठे तञ्च कर्म कालेऽतीते तु तस्य च । वर्षे तृतीये चोलेन नान्तरा तच्च वै स्मृतम् ॥५०६।। तस्य कालेऽप्यतीते तु मौंज्या सह विधीयते । कर्तव्यत्वेन सततं जातकादीनि यानि वै ॥५०७।। तास्युस्ता निखिलान्यत्र मौंज्या सह विधानतः । तदानीमेव कार्याणि न तु भिन्नेन नेहसा ॥५०८॥ कर्म कर्मान्तरेणैव कर्तव्यं स्यात्प्रयत्नतः । यद्यतीतं कृतं कर्म भिन्ने काले प्रमादतः ॥५०॥ अपनीतेव्रतस्यापि पुनः करणमर्हति । पृथग्भिन्न भिन्नकालः समुहूर्तादयः स्मृताः ॥५१॥ प्राजापत्येन मुख्येन तद्वितीयादिना मुखम् । कर्तव्यं स्यादुपाकर्म तथा चोत्सर्जनं पुनः ॥५११।। प्राजापत्याख्य काण्डानि व्रतानि नव वै तथा । सौम्यान्यपि च दिव्यानि सप्ताग्नेयानि संविधिः ॥५१२।। वैश्वदेवाख्यकाण्डानि षोडश स्युर्हि संख्यया । प्राजापत्ये तत्र काण्डं पौरोडाशे विधीयते ॥५१३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy