________________
नित्यानुष्ठानाकरणेप्रत्यवायिकदोषवर्णनम् २६०५ अतिरात्रात्परं तस्यानुष्ठानं तु विनैव हि । अग्निष्टोमस्य मुख्यस्य नोत्तरक्रतुयोग्यता ॥४६२॥ एष हि प्रथमो यज्ञो निखिलानां मुखं परम् । ततोऽप्यत्यनिष्टोमः स्यादुक्थ्यः षोडशिका ततः ॥४६३।। अतिरात्रोझोर्यामश्च वाजपेयश्च तत्क्रमः । त एते सप्तसंख्याकाः सोमसंस्थाश्च सन्ततम् ।।४६४॥ अनुष्ठेया ब्राह्मणेन अकरणे प्रत्यवायिकाः । हविर्यज्ञास्ततो भूयः अग्निहोत्रं ततः पुनः ॥४६॥ दर्शश्चपौर्णमासश्चाग्रयणं तत्परं तथा । चातुर्मास्यानि प्रोक्तानि निरूढपशुरेव च ॥४६६।। सौत्रामणिस्तत्परं स्यापितृयज्ञोऽन्त्य उच्यते । एतानि किल कर्माणि चतुर्दशमहान्त्यपि ॥४६७।। नित्यानि कथितानि स्युः पावनानि द्विजन्मनाम् । ब्राह्मण्यपूर्तिरेतैःस्यादेतत्पूर्वाणि तानि हि ॥४६८।।
औपासनं वैश्वदेवः पार्वणं त्वष्टका तथा । मासि श्राद्धं सर्पबलिरीशानबलिरेव च ॥४६॥ सप्तैते पाकयज्ञाः स्युरेकवितिसंख्यया। कथितानि समस्तानि गृहिणो न तु वर्णिनः ॥५०॥ वर्णिनोऽध्ययनं त्वेकं गुरुशुश्रूषणं तथा । अग्निकार्य प्रतिदिनं भिक्षाचरणमेव च ॥५०१।। विप्रस्य जातमात्रस्य जातकर्म प्रकीर्तितम् । कर्तव्यत्वेन विहितं दिनाद्वादशमात्तु तत् ॥५०२॥