________________
२६०४
कण्वस्मृतिः विशेषेण ब्रह्मविद्या विषये वै वृथा कलिम् । न कुर्यादेव सहसा शक्त्या नित्यःस वो भवेत् ॥४८२।। नानाहिताग्निस्तिष्ठेत्तु न च दुर्ब्राह्मणोऽपि वा। येन केनाप्युपायेन दौाह्मण्यं समागतम् ॥४८३।। अपि स्वीकृत्य चण्डालान्नाशयेत धनं द्विजः । दौर्ब्राह्मण्येन नष्टस्याश्रोत्रियत्वेन वा तथा ॥४८४।। असोमयाजित्वेनैवं को लोकः स्यादहन्तराम् । नैव जाने नैव जाने नैव जाने पुनः पुनः ॥४८॥ वेदविद्भयस्ततो यत्नाद्विच्छित्तिर्नभवेद्यथा। मनुष्ययनः कर्तव्यस्तद्यत्नादपि केवलम् ॥४८६।। अदृष्टलाभो भवति विशेषेण न संशयः । नाहीनक्रतुभिस्तिष्ये(?)यजेतैव न चान्यथा ॥४८७।। कलापहीनक्रतवो दुस्साध्याः स्युर्हि देहिनाम् । सर्वक्रतूनां प्रथममाधानात्तु परंतराम् ॥४८८।। अग्निष्टोमस्त्वनुष्ठेयः अतिरात्रोऽथवा सदा। अतिराने प्रथमतो यदि चेत्समनुष्ठिते ॥४८॥ अधिकारस्तूत्तरेषु तेषु क्रतुष नैव वै। अग्निष्टोमे प्रथमतः कृते तु किल वच्म्यहम् ॥४६०।। ऋतूनामपि सर्वेषामनुष्ठानाय योग्यता। .. उत्तरेषां भवेदेव नात्रकार्या विचारणा ॥४६॥