SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नित्यनैमित्तिककर्मणाम्विष्णोराराधनवर्णनम् २१०३ दिव्यं ज्ञानं भवेन्मुक्तिः साक्षात्तेषां न संशयः । तदर्थभाषाशास्त्राणि चित्तव्यामोहकानि वा ॥४७॥ वैदिकेन ततस्तानि त्याज्यान्येव विपश्चिता। तथा सत्कर्मकालेषु भाषा या लौकिकी च सा ॥४७२।। वर्जनीया प्रयत्नेन तञ्चित्तज्ञानशुद्धये । दिव्यभाषा सदा ग्राह्या वैदिकेन महात्मना ॥४७३।। विशेषात्कर्मकालेषु ततोऽपि श्राद्धकर्मसु । महामौनेककालेषु क्रियाकारादिना तथा ॥४७४।। विलोकनादिना कुर्यात्पापसंदर्शनं नृषु ।। यदि मौनं त्यजेद्वाऽपि हठान्मोहाच्छलात्तथा ॥४७५।। वैष्णवी निष्कृतिदिव्या चेततुश्चतथा पराः । दिव्या व्याहृतयो यद्वा गायत्री वातिपावनी ।।४७६।। वेदमन्त्रं विना नान्यत्तारकं न हि विद्यते । दुरालापादिकालेषु नामान्याहुर्विपश्चितः ॥४७७|| पावनानि हरेरन्यदस्तीति परमं स्मृतम् । तस्माद्वैदिककृत्येषु निष्णातः सर्वदा भवेत् ॥४७८।। नित्यं यजेत निखिलैनित्यनैमित्तिकैरपि । शक्तस्त्वहीनक्रतुभिश्शतसंवत्सरादिभिः ॥४७६।। यजेतैव सदा विष्णोरर्चनाय द्विजाग्रणीः । अवेदवादिनो दुष्टान् धार्मिकान्धर्मदृषकान् ॥४८०।। तथागतांस्त्यक्तयज्ञान्कुचित्तान्यज्ञदूषकान् । परित्यजेद्रतो वै तान्यास्यान्यवलोकयेत् ॥४८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy