SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ २६०२ कण्वस्मृतिः वैखानसैकदेशापि चक्रुर्दूषणमेव वै। ते तु क्रमेण तद्भक्त्या वैखानसमहर्षयः ॥४६०॥ बालखिल्यास्तु संभूत्वा पश्चाजन्मान्तरे पुनः । संप्रक्षाला भवन्त्येव पश्चाजन्मान्तरे किल ॥४६॥ मरीचिपाः संभवन्ति तस्मिञ्जन्मनि केवलम् । वेदमार्गानुगां बुद्धिं संप्राप्य महतीं ततः ॥४६२॥ पितृभिशिक्षिताः सम्यग्वेदाभ्यासपरास्तरां । वासं गुरुकुले कृत्वा ऋचस्सामानि तानि च ॥४६३।। यजूंषि लब्ध्वा पुण्येन भवेयुः किल कर्मणा। सन्तः सत्पथगा धीराश्चांचल्यैकविवर्जिताः ॥४६४॥ सतां यजुस्सामऋचः श्रीदिव्या महती परा। तद्वन्तश्चतदर्थशास्तदनुष्ठानतत्पराः ॥४६॥ क्रमेणैव लभन्ते तं पन्थानं ब्रह्मवादिनाम् । सम्प्राप्य दिव्यज्ञानं तन्निदिध्यासनतत्परः ॥४६६।। सायुज्यनाम(मि)का मुक्तिं लभन्ते सद्गुरोस्तराम् । प्रसादेनैव कृपया पितृणामर्चया तथा ॥४६७।। अयमेव महामार्गों वेदोक्तात्यन्तसौलभः । अन्यः पन्था नायनाय श्रुतिरेवमुवाच सा ॥४६८।। ब्राह्मणस्यैव तद्विद्याशिक्षितस्य विशेषतः । द्वावेव श्रवणादीनां वेदवाक्यविचारतः ॥४६६।। सूत्राणां(शि) क्षया चापि मुक्तिः स्यात्तादृशी परा । विना वेदान्तवाक्यानां दिव्योपनिषदामपि ॥४७०।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy