________________
त्रिविधऋणेभ्यऋणमोचनत्वप्रकारवर्णनम् २६०१ काम्यपूजां पक्षपूजां मासर्वब्दादिपूजनम् । जलाभिषेकपुष्पादिधूपाद्यश्च निवेदनैः ॥४४६॥ ब्राह्मण्यं ब्राह्मणे जातो न्यायोऽथायं क्रियामुखैः । उच्यते ब्राह्मणश्चेति स तु जातो महाऋणी ॥४०॥ स्वाध्यायाध्ययनाच्चापि ब्रह्मचर्यमुखादिना । ऋणं तं प्रथमं लंध्यं यज्ञैर्देवं ततस्तरेत् ॥४५१॥ सात्वतं विधिमास्थाय गीतनृत्तार्पणेन च । हरेर्गानं च नृत्तं च नटनं च विशेषतः ॥४५२।। सदा ब्राह्मणजातीनां विहितं नृत्यकर्मवत् । अर्धास्तमित आदित्ये पुनर|दयेऽनिशम् ॥४५३।। दिवैवाराधनं तस्य देवस्य परमात्मनः । कैवल्यदं सद्य एव तथा तदवलोकनम् ॥४५४।। यत्किंचित्क्रियते कर्म लौकिकं वैदिकं तथा। भोजनं गमनं दानमलङ्कारोऽथ भूषणम् ॥४५।। सर्व तत्प्रीतये कुर्यात्तन्निर्माल्यपरो भवेत् । तेनोपभोक्तभुक्त)स्रग्गन्धवासोऽलङ्कारचर्चितः ॥४५६।। उच्छिष्टभोजनश्च तस्य मायां जयत्यसौ। वैदिकानि तु कर्माणि शक्रादिप्रीतये खलु ॥४५७।। भवन्ति वै सुक्तिरसा भवत्यत्र कथं तथा। मुख्यं तमेव स्वीकार्य विप्रत्वस्य हि सिद्धये ॥४५८॥ गार्हस्थ्यं धर्मकार्याय परोपकृतिहेतवे । एवं ते वैदिकं मार्गमश्मकुट्टादयोऽखिलाः ॥४५॥