SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २६०० कण्वस्मृतिः महापितृयज्ञश्च पितृयज्ञस्तथैव च । पैतृकाणि हि कर्माणि चत्वार्याहुर्मनीषिणः ॥४३८॥ प्राधान्येनैव चोक्तानि जातकर्ममुखानि तु । मानुषाणि तु सर्वत्र प्रसिद्धानि जगत्त्रये ॥४३६।। पराणि दैविकान्याहुः सर्वाण्येतानि वै द्विजः । प्रतिसंवत्सरं कुर्यादेव पित्र्याणि शक्तितः ॥४४०|| शक्तिसाध्यानि कार्याणि कथं कुर्यादकिंचनः । प्रभूतधनधान्यानि ह्यग्निहोत्रमुखानि वै ॥४४॥ इत्याहुः केचनाचार्या वैखानसमहर्षयः । अपरे वालखिल्यास्तु वैदिकामतयोऽब्रुवन् ॥४४२॥ यस्य त्रिवार्षिकं वित्तं लक्षं लक्षार्धमेव वा। स कथं मत्तमातङ्गमनिहोत्रमुपासते ॥४४॥ पुनरन्ये ह्यश्मकुट्टाः स्वमतं प्राहुरुत्तमम् । रंभासंभोगकार्याय स्वर्गोऽयं विहितः पुरा ॥४४४।। पितामहेन देवेन तत्कार्याय मखः परः । रंभासंभोगकामा ये तैरेवाहिस हिक्रतुः ॥४४।। समनुष्ठ य एवेति नान्यकार्याय स स्मृतः । नैमिशा(ष)दि महाक्षेत्रे विद्यमानेश्वरार्चनात् ॥४४६।। मुक्तिर्नात्र विरोधो हि तस्मात्कुर्याद्धरेः सदा । प्रतिमासु पुराणेषु महारुप्रस्तरात्मसु ॥४४७॥ पत्रैः पुष्पैः फलैरर्ची षोडशैरुपचारकैः । नित्यपूजा विशेषेण तथा नैमित्तिकान्यपि ॥४४८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy