________________
वेदानामनभ्यासे पतनवर्णनम् २८६ अनधीत्यैव यो वेदं शास्त्रेषु कुरुते श्रमम् । स पापीयानृषिमृणान्मुक्तो नैव भवत्यलम् ॥४२७॥ विप्रजन्म समासाद्य वेदं तमनधीत्य च। तेन वेदेन किं चेति वदन्मम महाजडः ॥४२८।। शास्त्रमात्रश्रमोऽतीव सप्ततन्तून्विहाय च। सुस्वार्थ मैथुनं कुर्वन्नदन्निष्टमटन्वनम् ॥४२॥ संपादयन्वृथातीव सत्क्रियाश्च विसृज्य वै । कुटुम्बभरणेऽतीव नित्यजागरसंमुखः (संयुतः)॥४३०॥ लुठन्महीतले तूष्णीमधोगच्छति मानवः । अनधीतैकवेदोऽपि तक्रियामन्त्रमात्रतः ॥४३॥ कृत्वा कर्माणि नित्यानि ज्योतिष्टोममुखानि वै । ब्राह्मणो ब्रह्म सायुज्यं लभते नात्र संशयः ॥४३२।। त्रिपूर्ववेदिविच्छित्ताविन्द्राग्नी पशुना यजेत् । त्रिपूर्वसोमविच्छित्तौ दौर्ब्राह्मण्यनिवृत्तये ॥४३३॥ तदाश्विनाख्य पशुना यजेतैवाविचारयन् । वेदोक्तकर्मभिनित्यैरेभि... रेव(हि?) जायते ॥४३४॥ चित्तशुद्धिाह्मणस्य नान्यैः कर्मशतैरपि । वेदोक्तमार्गो यो दिव्यः कथितश्चित्तशुद्धये ॥४३५।। सुलभोऽयं तमेवातः सेवेतैव विचक्षणः । चित्तशुद्धिवंशवृद्धिः पितृणां (तु) प्रसादतः ॥४३।। पितृप्रसादः श्राद्ध न न चान्येन कदाचन । एकविंशति यज्ञेषु मासि श्राद्ध तथाटकाः ॥४३७॥