________________
ब्रह्मज्ञानैकसाधनौपासनप्रयोगः २८६७ सा सर्वसाधारणतो न कतुं शक्यते किल । साधारणाश्चपुरुषास्तादृशं दूषयन्त्यपि ॥४०॥ तां क्रियां तत्स्वरूपं च तन्मन्त्रान्वेदवर्जितान् । मोचयन्तः स्वका पूजामधिकत्वेन केवलम् ।।४०६।। वर्णयन्तः परं भावमजानन्तः श्रुतेः पदम् । व्यत्यासयन्ति सन्मार्गा न मार्गान्वर्णयन्त्यपि ॥४०७।। तदीयमार्गभाग्यो वै वैदिकोऽपि न वैदिकः । अखण्डवैदिको मार्गः सर्वेषामेव कर्मणाम् ॥४०८।। आरंभकाले सङ्कल्पे परमेश्वरतुष्टये । करिष्यामीति संकल्प्य तत्तत्कर्म यथाविधि ||४०६।। समनुष्टाय तत्पश्चात्तत्तत्कर्मान्त एव हि । प्रीणातु भगवान्देवः परमात्मा सदा हरिः ॥४१०॥ अनेन कर्मणा चेति त्यागं कुर्याज्जलेन वै। एतच्चक्रधरम्याम्य पृजनं महदेककम ॥४११।। सद्भिरुक्तं विधानेन परमवैदिकोत्तमः। पूजनं देवदेवस्य परं कर्मभिरेव वै ॥४१२।। कथितं तत्समासेन तानि कर्माणि सांप्रतम् । प्रवक्ष्यामि क्रमेणैव ब्रह्मज्ञानैकसाधकम् ॥४१३॥ औपासनं वैश्वदेवं पार्वणं च तथाष्टकाः । मासिश्राद्धं सर्पबलिरीशानबलिरेव च ॥४१४॥ अग्निष्टोमोऽतिपूर्वश्च उक्थ्यः षोडशसंज्ञिकाः ।
अतिरात्रोप्तोर्यामश्च वाजपेयश्च सप्त वै ॥४१।। १८२