________________
२८६६
कण्वस्मृतिः ब्रह्म वै चतुर्होतारः तेभ्यो यज्ञोऽधिनिर्मितः । स हि नारायणो ब्रह्मा पुरुषरूपेण तत्र च ॥३६४।। वर्तते चानुवाकेन चोत्तरेण जगन्मयः । सृष्टिस्थितिविनाशानां कर्ताकारणकारणम् ॥३६॥ करणस्यापि करणं जगजन्मादिकारणम् । सत्यज्ञानानन्दमयं सदसञ्चिन्मयात्मकम् ॥३६६।। तद्र पेणावतीणं तत्तस्याध्येता तदात्मकः । ब्रह्मवाद्युच्यते सद्भिः स यैर्न निषिध्यते ॥३६॥ स सर्ववेदयज्ञौधसत्कर्मव्रतकृन्मतः । स उ वै वैदिकश्रेष्ठःकर्मिष्ठः कर्मठोऽशठः ॥३६८।। सर्वाचार्यः सर्वबन्धः संप्रदायप्रवर्तकः । सर्वाचारस्थापकश्च सर्वलोकविलक्षणः ॥३६६।। सूक्ष्मधर्मार्थतत्वज्ञः सोऽयं किल विशेषवित् । वेदमार्गानुसारी च परं वेदोक्तमेव हि ॥४००।। करोति कर्मनान्यत्तु गौणमुख्य तथा बलम् । देशकालमहापात्रद्रव्ययोगादिकेक्षणे ॥४०॥ मुख्यं तत्समनुष्ठानं कुरुते किल सन्ततम् । सत्कर्मभिः सदा पूजां करोति कुलसंभवः ॥४०२।। सपत्रपुष्पादि कृता देवस्य परमात्मनः। भवेन्नतु सदापूजा किन्तु साकर्मभिः कृतैः ॥४०३।। यथाशास्त्रादिविहितैरलभ्यैर्महतीति सा। प्रोच्यते तद्विशेषज्ञैः स हि सर्वोत्तमोत्तमः ॥४०४।।