________________
ब्रह्मवेदाध्ययनेऽधिकारित्ववर्णनम् २८६५ नमोब्रह्मणसुस्पष्टाः काण्डानुक्रमतो मताः। तत्तद्व देष्वेवमेव काण्डानुक्रमतस्त्विमे ॥३८३॥ ज्ञेया एव न चान्येऽत्र ब्रह्मवादिभिरीरिताः । ऋषयस्त्वेवमेव स्युः पितरोऽपि तथा मताः ॥३८४।। श्रुतिसंबन्धिनः कृत्स्नास्तत एव हि तर्पणम् । तेषामेव प्रकर्तव्यत्वेन तच्चोदितं परम् ॥३८५।। गणास्त एव कथिता अग्नये वायवेत्यादिना । एकादशैते कथिताः पल्यानेनादिकाः स्मृताः ॥३८६।। तत्रपन्यनुवाकेयाः पत्न्यस्ता एव चोदिताः। एतत्त्वनुवाकोक्तपत्नीनां मन्त्रमूलतः ॥३८७।। पठनादप्यपत्नीकः सपत्नीक इतीरितः । अपत्नीको ब्रह्ममेधानध्यायी श्रोत्रियोऽपि सन् ॥३८८।। सपत्नीको 'ब्रह्ममेधाध्यायी न संशयः । पत्नीपुत्रादिराहित्ये वैकल्यं श्रोत्रियस्य न ॥३८॥ विशेषेण ब्रह्ममेधाध्येतुस्तन्नास्ति सन्ततम् । पञ्चभार्यो दशसुतोऽप्यपत्नीकोऽप्यपुत्रवान् ॥३६०।। यो ब्रह्ममेधानध्यायी स एव कथितस्तथा । भार्यामात्रविहीनेन ब्रह्ममेधी महामनाः ॥३६१।। पत्नीमन्त्रैकसंलब्धसंस्कारहोतृसंस्कृतः । नित्यपत्नी समायुक्तस्तुच्छपत्नीविनाशतः ॥३६२।। अपत्नीकः कथमयं भवतीत्यसकृत्तराम् । मीमांसा चात्रकर्तव्या धर्मब्रह्मादिवादिभिः ॥३६३।।