SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ २८६४ कण्वस्मृतिः नियमोऽयं याजुषस्य श्राद्धकर्मणि पावकः । वैदिकः कथितः सद्भिर्बह्व,चानां तथैव हि ॥३७२।। मुख्यः कल्पः पावके स्यादनौ करणकर्मणः । विकल्पात्पाणिहोमोऽपि तदादिस्तदनन्तरम् ॥३७३॥ प्रयतो वैश्वदेवान्ते ब्राह्मणानतिथीनपि। भोजयीत च बालादोन्मानुषोऽयं महासवः ॥३७४|| अजस्रं वैश्वदेवादाववसानेऽथवा शुचिः। औदुम्बर्यश्चसमिधो जुहुयाद्दश वा शतम् ॥३७।। तावत्संख्यान्नाहुतीश्च श्रीकामः कालयो योः। देवयज्ञोऽयमुदितः केचित्तु शकलाहुतिः ॥३७६।। इमं यज्ञं तमेवोचुर्यत्पितृभ्यः स्वधेति वै । तर्पणं क्रियते यत्तु पितृयज्ञं प्रचक्षते ॥३७७|| येयं पूर्व बलिः प्रोक्ता वायसानां शुनामपि । एषा(ष) वै भूत यज्ञः स्यादतिथीनां तु भोजनम् ।।३७८।। नृयज्ञः कथितः सद्भिःब्रह्मयज्ञस्त्रयीमयः । एवं पञ्चमहायज्ञाः श्रुतिप्रोक्ताः सनातनाः ॥३७६।। नैषामङ्गाङ्गिभावोऽस्ति स्वतन्त्रास्ते परस्परम् । तर्पणं ब्रह्मयज्ञस्य देवादीनां यदीरितम् ॥३८०॥ तदङ्गमेवतस्याः स्यात्तच्चनित्यमितीरितम् । देवानां प्रथमं तत्र तर्पणं समुदीरितम् ॥३८॥ ऋषीणामथ तत्प्रोक्त पितृणां तु ततः परम् । ब्रह्मादयोऽपि ये देवा वेदोक्ता अष्टमे मताः ॥३८२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy