________________
पञ्चपाककरणासमर्थस्यविकल्पविधिवर्णनम २८६३ पञ्चपाकास्तापनीया नायमौपासनः कदा । तथाकर्तुमशक्तश्चेत्समारोपणतोऽपि वा ॥३६१।। अश्मनः समिधो वापि भर्तव्यः सन्ततं द्विजैः । परित्यजेद्यदि शुचिं विरहीत्युच्यते बुधैः ॥३६२।। सायं प्रातस्ततो नित्यं वन्युपस्थानमाचरेत् । होमात्परमुपस्थानं कार्यों होमस्ततः पुनः ॥३६३।। होमं विना ह्युपस्थानं न कदाचित्समाचरेत् । प्रवरस्यदितत्काले शुचिर्भक्त्या समन्वितः ॥३६४।। सूर्यायेदं नममेति तद्गृहाभिमुखो जपेत् । बुध्वा तं होमकालं वै तथास्विष्टकृतश्च वै ॥३६।। चतुर्थ्यन्तेन तत्पश्चात्तदुपस्थानमाचरेत् । प्रणमेत प्रयत्नेन गोत्राभिवादनं च तत् ॥३६६।। कुर्यादेव विधानेन न तु तूष्णीं स्वयं शुचौ । लौकिके जुहुयाद्यत्र कुत्रापि यदि वै तदा ॥३६७।। चरेद्वृथा हि तत्कर्म तथा नप्त भवेद्ध वम् । यतोऽयं वह्निरेवं हि भार्याधीनो बभूव हि ॥३६८।। पुरा तु ब्रह्मसदने निर्णयस्तु तथा कृतः।
औपासने स्थिते गेहे भार्याधीनेन कुत्रचित् ॥३६॥ प्रवासे यजमानस्य यदि प्रत्यब्दमागतम् । तदा तु लौकिके कुर्यादनौ पाणौ नचाचरेत् ॥३७०।। दर्भस्तंबेऽप्सुवा जायामग्नौकरणमापदि । न कुर्यादेव सहसा पाण्यादिषु हि याजुषः ॥३७॥