SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ गार्हप्रत्यस्थापन्नवर्णनम् २८६१ कृच्छ्रचान्द्रायणादीनि दानानि विविधान्यपि । तुलाभारमुखान्येवं यानि लोकेऽधिकानि वै ॥३३६॥ फलाधिकानि वर्तन्ते तत्कर्ता तानि विन्दति । तस्मादौपासनं सायं प्रातश्च सुसमाचरेत् ॥३४०॥ धृत्वोखया विशेषणविवाहेऽग्निविशेषवित् । बिभृयादुखयैवैनं न तु भूमौ विनिक्षिपेत् ॥३४१॥ भूमौ तु गार्हपत्यस्य स्थापनं स्मृतिचोदितम् । औपासनस्य तत्प्रोक्तमुखं कृत्वा ततो यथा ॥३४२॥ सौलभ्याधारणामूलं भवेत्तस्यां निधायतम् । नित्यानुहरणं कुर्यात्कृते त्वैवं हि तद्गृहे ॥३४३॥ भव्यानुहरणे पूर्व बभूवुर्यानि कृत्स्नशः । मङ्गलानि प्रतिदिनं महोत्सवपरम्पराः ॥३४४।। पूर्व तु शेषहोमस्य विप्रागमविशेषकाः । तदर्चनाविशेषाच्च तद्भोजनपरम्पराः ॥३४५।। सर्वबन्ध्वागमाश्चापि स्वस्तिवाचनपूर्वकाः । असंख्याका अनन्ताः स्युर्मङ्गलध्वनयोऽनिशम् ॥३४६।। उख्यानुहरणं यत्तक्रियते गृहिणान्वहम् । सायंप्रातश्च विधिना मङ्गलायतनं हि तत् ॥३४७॥ तस्यानुहरणं पश्चाद्रथस्योत्सवनादिकः । गृहप्रवेशहोमाख्य आग्नेयश्च तथाविधः ॥३४८।। सप्तर्षि अरुन्धतीपूजादर्शनादिमहोत्सवः। औपासनसमारंभस्तद्गतेर्वनमर्चनम् ॥३४॥ .
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy