________________
२८६०
कण्वस्मृतिः कार्यान्तरं न कुर्वीत यावत्कृत्वा ततश्चरेत् । नौपासनात्परो धर्मो ब्राह्मणस्येह विद्यते ॥३२८॥
औपासने किलाधानमधं यावत्तु वा द्विधा। तेनाग्निहोत्रं तत्पश्चाद्दर्शादिस्तदनन्तरम् ॥३२।। आग्रयणं चातुर्मास्यं निरूढपशुरेव च । अग्निष्टोमादयः पश्चात्क्रतवो निखिलाः स्मृताः ॥३३०।। तस्मादौपासनसमं न धर्मान्तर मस्ति हि । अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते ॥३३१।। आदित्याज्जायते वृष्टिवृष्टरेन्नं ततः प्रजाः । तत्मादौपासने सूर्यायाहुतिर्दीयते परा ॥३३२।। तावन्मात्रेण सर्वेषामन्नादानां धरातले । महतां विद्यमानानां योगिनां ब्रह्मवादिनाम् ॥३३३।। जङ्गमानां च सर्वेषां क्षुधार्तानां विशेषतः । अन्नमन्नं महाक्षन्नः को वा तस्या निवृत्तये ॥३३४॥ प्रदास्यति महाभागः अटतामिति सर्वतः । भक्ष्यभोज्यैश्च लेह्य श्च चोध्यैरपि सुधास्रवैः ॥३३।। सूपेन परमान्नेन नानाशाकविशेषतः । प्रभूतसर्पिषा दध्ना पयसा मधुना फलैः ॥३३६।। दातुरन्धस्तु यत्पुण्यं तत्कोटिगुणितं फलम् । महदाप्नोति परमं नात्रकार्या विचारणा ॥३३७||
औपासने परा देवा वेदाः शास्त्राणि कृत्स्नशः । तीर्थानि पुण्यक्षेत्राणि व्रतानि विविधान्यपि ॥३३८॥