SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ २८८६ ब्रह्मापणबुद्धवसर्वकर्मणामनुष्ठानम् श्मश्रूपपक्षकेशानां मानवं प्रथमं स्मृतम् । उपश्मश्रुकेशवपनं तदनन्तर ...."म् ॥३१७।। एतद्भिन्नं तृतीयं स्यादासुरत्वसमंजसम् । केचित्त्वयं प्रदायाथ स्वमत्या तत्परं शुचिम् ।।३१८।। समुद्धृत्य विधानेन चोदयान्तर्दशोत्तरम् । जपं कुर्वन्ति गायत्र्यास्तक्रियामध्य एव वै ॥३१॥ उदयानन्तरं सूर्योपस्थानमनन्तरम् । अग्निहोत्रं हि कुर्वन्ति तदेतदसमंजसम् ॥३२०॥ कर्ममार्गस्य कालं वै ज्ञानिमार्गस्य चेत्पुनः । ब्रह्मार्पणधिया सर्व कर्म तरिक्रयते परम् ॥३२॥ स्नानसंध्याग्निहोत्रादि स्मात वैदिकजालकम् । यत्कर्म तद्ब्रह्मधिया क्रियते किल तेन वै ॥३२२॥ को भेदः कर्मणां चेति कृत्स्नानां ब्रह्मरूपतः । तस्मात्कृत्वान्वहं सन्तः कृत्वैतद् बाधकन्तराम् ।।३२३॥ न भवेदिति च प्रोचुस्तदनुष्ठानमेतदु । नोत्तमत्वेन मन्वन्ते ज्ञानिनो वैदिकाः परम् ॥३२४।। न कर्मणि तु भिन्नस्य कर्मणः समुपक्रमः । विधि लमिति प्रोचुस्तदुपर्यपि केचन ॥३२।। इष्टमध्येऽग्निहोत्रं तक्रियते वा न चेत्पुनः । अन्वाधानात्परं भूयस्त्यज्यते किं तदुच्यताम् ॥३२६।। अतः स्यात्कर्ममध्येऽपि कर्मान्यत्कार्यमुच्यते । वस्तुतस्तु परं वच्मि मध्येऽस्मिन्स्मार्तकर्मणः ॥३२७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy