________________
२८८८
कण्वस्मृतिः कन्याकुम्भकुलीरेषु पत्नीगर्भे सुसन्ततम् । प्रत्यब्दमासपक्षेषु चानुमनुयुगादिषु ॥३०६।। प्रोच्यते वेदवाक्येन तस्मात्तु क्षुरकर्म तत् । आहिताग्नः पर्वणि हि कथितं तु विशिष्यते ॥३०७।। इष्टयभावेऽपि तत्कर्म मात्रादपि च केवलम् । यत्किंचित्कर्मणादिष्टिकमकदेशतः ॥३०८।। कर्मणादिष्टिसिद्धिश्च भवत्येवेति तत्कृतम् ॥३०॥ यावतः कर्मणः कर्तुमशक्तावपि तस्य वै । अङ्गमात्रास्यात्तु कृतौ समीचीनं भवेत्किल ॥३१०॥ सोऽयं तस्मादाहिताग्नेर्न कालादिनिरीक्षणम् । क्षुरस्य कार्य नैव स्यात्सकालः क्षुरकर्मणः ॥३११॥ नित्यतः समुपक्रान्तस्तस्याइष्टरुपक्रमे । त्यक्तनष्टाग्निहोत्रस्याहिताग्नेरेवमप्यति ॥३१२॥ चोदितं तद्धि चैवं स्यादाहिताग्नीतरस्य च । वर्णिनो ग्रहणश्चापि वैदिकस्यैव केवलम् ।।३१३।। उपाकर्मणि चोत्सर्गे व्रतानां सन्ततं तराम् । यदा तदा खुरं स्याद्धि न कालादिनिरीक्षणम् ।।३१४।। कूष्माण्डे गणहोमे च प्रायश्चित्ते छुपस्थिते । सूतकान्ते प्रसूत्यन्ते व्रते(त)चान्द्रायणादिषु ॥३१।। नैमित्तिकब्रह्मकूर्चे न कालादिनिरीक्षणम् । देवासुरसुराणां त(त्)त्रिविधं परिकीर्तितम् ।।३१६।।