SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ वैदिककृत्यस्यसर्वतःप्राधान्यवर्णनम् २८८७ प्रबलं वैदिकं कर्म सर्वेष्वपि च कर्मसु । तत्कृत्वैवपुरापश्चापित्रोः कुर्याच्छवक्रियाम् ॥२६॥ शवे निपतिते गेहे पित्रोरपि पुनः किमु । स्नात्वा वाससा सस्वं अग्निहोत्रं यथा पुरा ॥२६६।। निवर्त्य तत्परं सर्व कुर्यादिति परा श्रुतिः । तद्वदिकस्य कृत्यस्य संकल्पेऽस्मिन्कृते यदि ॥२६७।। यस्य कस्यचिदेकस्य तदन्तःपातिनामपि । मध्ये वा ऋत्विजां नूनमाशौचं सूतकन्तु वा ॥२६८।। नास्त्येवेति ततः प्राह तस्मादत्र तु ऋत्विजः । स्नात्वा कर्माणि कुर्वीरन् कर्मकाले तु तत्पुनः ॥२६६।। वैतानिकस्थलं त्यक्त्वा दूरे तिष्ठति नात्र तत् । यावत्कर्म ततो भूयो बहिरन्वेति तं पुनः ॥३००।। एवं चेदृत्विजामन्यद्गोत्रिणामपि केवलम् । लग्नानां तत्र विप्राणां कीदृशं कर्म तद्भवेत् ।।३०१।। तत्तादृशं कर्म तस्मादुपमारहितं परम् । तत्परस्य ब्राह्मणस्य वैदिकस्य महात्मनः ॥३०२।। तद्धर्माः पृथगेव स्युः पितृदीक्षादयोऽखिलाः । गर्भदीक्षादयः सर्वे तस्यास्य च पृथक् पृथक् ।।३०३।। दिङ्मात्रमपि चोच्यन्ते वैदिकस्यान्वहं तराम् । उदयास्तमयात्पूर्व सूर्योपस्थानमीरितम् ॥३०४।। प्रतिपक्षेष्टितस्तद्वत्क्षुरकर्म हि पर्वणि । अतः सपित्रोशब्द सा (दीक्षाकेशस्थितिः सदा) केशधारणरूपिणी ॥३०५।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy