________________
२८८६
कण्वस्मृतिः सर्वेषु श्रुतिरुत्कृष्टा रुद्रकादशिनी श्रुतौ । पञ्चाङ्गरुद्रन्यासेन सर्वकल्मषनाशनी ॥२८४।। विप्रसंध्याविघातस्य कर्ता सद्यः स्वयं तदा । तस्य संध्यां यतःकुर्यादन्यथा किल्बिषी भवेत् ।।२८।। न संध्याविघ्नकरणादन्यत्पापं तु विद्यते । ब्राह्मणस्य क्षत्रियादेरपि शूद्रस्य वा पुनः ।।२८६।। संध्यापरं तु होमः स्यात्सा च संध्याजपोऽपि वा । मित्रस्यचर्षणीमन्त्रादुपस्थानादिकं परम् ॥२८॥ आहिताग्नेः पूर्वमेव चोदयादंशुमालिनः । निखिलं तद्विजानीयादग्नेरुद्धरणं तथा ॥२८८।। आहिताग्नेरग्निहोत्रं सर्वश्रुतिसमीरितम् । निखिलेभ्यश्च कर्मभ्यः सततं ह्यतिरिच्यते ॥२८६।। तत्कर्मणः सर्वकर्मजालं यत्तदशेषकम् । परं तद्योग्यतामात्रं संपात(द)कमिति स्मृतम् ॥२६०।। तस्मात्तदुदयात्पूर्व स्मातं निवर्त्य चाखिलम् । ततः संकल्पनियतस्त्वग्निहोत्रस्य कर्मणः ॥२६॥ होष्यामीत्येव संकल्प्य सायम्प्रातः समाचरेत् । संकल्पानन्तरं तस्य तदुद्धरणमुच्यते ॥२६२।। अकृत्वैव (तु) संकल्पं न तदुद्धरणं चरेत् । कृते तस्मिंश्चसंकल्पे तन्मध्ये स्मार्तकर्म तत् ॥२६॥ न किंचिदपि कुर्वीत महावैदिककर्मणि । कर्मणोऽन्यस्य संकल्पेऽन्यकर्मान्तरमुच्यते ॥२६४।।