________________
मूकस्यविप्रत्वाधिकारित्वेविचारवर्णनम् . २८८५ तज्जातानां परं तत्तु विप्रत्वं दुर्लभं तराम् । ब्रह्मचित्तैकसंभूत्या पञ्चपूर्वात्परंतराम् ॥३७३॥ तावक्रियाभिः सम्यऽवै कृताभिस्तत्कुलेऽपि वै । विप्रत्वं प्रभवेद् भूयश्चास्खलद्विप्रकृत्यतः ॥२७४।। यदि मध्ये तत्कुलीनाः प्रास्खलन्वै स्वकृत्यतः । नष्टा एव भवेयुः तावत्तत्र समुद्भवाः ॥२७॥ वेदशास्त्रपराश्चापि सक्रियाभिश्च संस्कृताः । सत्कर्मिणोऽपि नितरां नान्ययोग्याइतिश्रुतिः ॥२७६।। ते परेषां हव्यकव्ययोग्याइत्येव तत्परम् । ब्रह्मविद्भिः प्रकथिताः परिनिष्ठः कुलोद्भवः ॥२७७॥ विप्रत्वप्रकृतिं याति नचेन्मूकस्तु केवलम् । को वानुमेयः सद्भिवै सदसत्तद्विलक्षणः ॥२७८11 गायत्रीवर्णरहिते क्रियामात्रैकभूषिते । कथं तिष्ठति विप्रत्वं मूके किं बहुना पुनः ॥२७६।। विप्रसंध्याकारकोऽपि स्वक्रियायै महत्तराम् । एनो महदवाप्नोति गवां (संध्या?) तद्रोधनेन च ।।२८०।। विप्रसंध्यारोधनस्य बालस्तस्य विरोधिनः । तत्पानसमयेऽतीव. भक्तमत्तु समुद्यतम् ॥२८॥ विघ्नकर्तुः श्राद्धकाल(ले)विघ्नकर्तुर्दुरात्मनः । रतिकल्याणमौंज्यादिपरतत्कालहारिणः ॥२८२॥ एकःस्याच्चैव संकल्पो यहवादेवजालकम् । कूष्माण्डं कथितं दिव्यं शतवारजपात्तु वै ॥२८३।।