SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २८८४ कण्वस्मृतिः समुद्दिश्य प्रयत्नेन तत्पादसलिलं तदा। पिबन्धरंश्च शिरसा पक्षे पक्षे यतश्शुचिः ॥२६२।। ब्रह्मकूर्चविधानेन तपिबन्होमपूर्वकम् । कालं नयेच्छुचिः स्वस्य तादृशस्यास्य भेषजं ॥२६३।। समीचीनमहासंध्यारहितस्य दुरात्मनः । नामानि तारकाणि स्युः प्रजातानि जगत्पतेः ॥२६४।। वेदाक्षरैकशून्यस्य पुराणान्तर्गताः पराः । श्लोकाः केचन संप्रोक्ताः स्नानसंध्यादिकर्मसु ॥२६।। न वैदिकः पुराणोक्त मन्त्रैः कुर्यात्कथंचन । किंचित्कर्मापि तस्मात्तैर्वैदिकैरेव वाचरेत ॥२६६।। सहस्रपरमां देवीं शतमध्यां दशापराम् । संध्यां नोपासते ये तु कथं ते ब्राह्मणाः स्मृताः ॥२६७।। कलौ तु केवलं तिष्ठद्गायत्रीवर्णमात्रतः । तदेकदेशतश्चापि क्रियानुकरणादपि ॥२६८।। ब्राह्मण्यं तच्च पूज्यं स्यान्न विचार्य प्रयत्नतः । न निषेध्यं विशेषेण गोपनीयतमं भवेत् ॥२६॥ संध्ययोः स्नानतो मौंज्याः बाह्य कक्रियया परम् । मोदनीयं हि विप्रत्वं न विचार्यतमं भवेत् ॥२७०।। मूकस्यापि च विप्रत्वमस्तीत्येवेति केचन । प्रोचुर्महर्षयो मौंज्यां गायत्रीजलपानतः ॥२७१।। जले संलिख्य गायत्र्या मन्त्रैः कृत्वाखिलाः क्रियाः । प्राशयेत्तं विधानेन मूकविप्रत्वसिद्धये ॥२७२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy