________________
सन्ध्यागायत्री वेदाध्ययनस्याफललक्षणम् २८८३ योगिनामप्यशक्यं स्यात्तत्कर्ता यश्च कश्चन । स महात्मा महाभागो ब्रह्मनिष्ठो महामनाः ॥२५१।। जीवन्मुक्तश्च ब्रह्मव नात्रकार्या विचारणा । संध्यामूलमिदं ब्राह्म स्नानमूलं तथैव च ॥२५२॥ शौचमूलं मन्त्रमूलं जपमूलं क्रियापरम् । वेदशास्त्रोक्तमूलं च सर्व गायत्रिकं स्मृतं ॥२५३।। ध्यानप्रदक्षिणापश्चादोमित्येकाक्षरादिकम् । सम्यगुच्चार्य संयम्य नासिकाग्रहपूर्वकम् ।।२५४।। दशप्रणवगायत्री रेचकैः पूरकैस्तराम् । कुंभकैस्तद्विधानेन प्राणायाम जपंश्चरेत् ॥२५।। कृत्वा त्रिवारं तत्पश्चात्कृत्वा संकल्पभप्यसौ। सहस्रवारं मुख्यं हि शतवारं हि मध्यमम् ॥२५६।। अधर्म दशवारं स्यात्करिष्यैवमिति स्म वै। जपं कुर्याद्विधानेन मन्त्रं तत्तत्स्वरान्वितम् ॥२५७।। तत्तद्वदी जपे क्त्या तद्वदस्वरभिन्नतः । वेदभ्रष्टो भवेत्सद्यस्तदोषशमनाय वै ॥२५८।। तदवान्तरभेदयज्ञस्तत्क्रमेणैव तं मनुम् । त्रिमुहूतं जपेद्भक्त्या तदोषात्तु प्रमुच्यते ॥२५६।। तज्ज्ञानमात्रे विकलो ब्रह्मबंधवादिनामकः । परितप्तस्सदा विद्वान् नित्यं परिचरन्भिया ॥२६०।। उपकुर्वन्परंकुर्वन्प्रदक्षिणनमस्क्रियाः। दृष्टमात्राद्ब्रह्मनिष्ठान्श्रोत्रियान्वेदपारणा(गा)न ॥२६२।।