SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २८८२ कण्वस्मृतिः सिध्यत्येव न सन्देहश्चिन्तनं तच्च वै क्रमान । अनेकजन्मकृतिनो भविष्यन्ति न चान्यथा ॥२४०।। असावादित्यो ब्रह्मति ध्यानरूपकृतेन्तराम्। संध्यायै समनुष्ठानयोग्यतायै प्रचोदिताः ॥२४१।। आपोहिष्ठात्रयो मन्त्राः यं जुष्टन नव स्मृताः। प्रोक्षणे विनियुक्ताः स्युर्दधिक्राव्णां च संगताः ॥२४२।। हिरण्यादिचतस्रश्च द्विपदा च शिवा तथा। स्नानमाचमनं चापि प्राणायामस्ततः पुनः ॥२४३।। सङ्कल्पो निखिलं चैतत् संध्यानुष्ठानहेतवे । तत्पूजारूपमेव स्यादर्घ्यदानं समन्त्रकम् ॥२४४|| रक्षोनिरसनादन्यदर्चनं तस्य किं स्मृतम् । तेनार्चयित्वा तां ध्यायेद्ब्रह्मत्वेनाथ तत्स्वयम् ॥२४॥ अस्मीति चैवं संध्या हि संध्ययोस्तांतु समाचरेत् । उभयोःकालयोर्मध्ये द्विवारं ब्राह्मणः सदा ॥२४६।। मध्यसंध्या च कर्तव्या मध्याह्न तद्वदेव हि । त्रिवारमन्वहं प्रोक्त संध्याकर्म द्विजन्मनः ॥२४७॥ यावजीवं भावना सा शक्तिःकतु न चेदपि । अर्घ्यदानात्परं सम्यगसावादित्यमन्त्रकम् ॥२४॥ वदेद्वाचा केवलं वा तावन्मात्रेण केवलम् । ब्राह्मण्यं सुस्थिरं तिष्ठत्ततः कुर्यात्प्रदक्षिणम् ॥२४॥ ब्राह्मण्यं गोपनीयं हि सर्वदेशेषु सर्वदा । मन्त्रोक्तिमात्रतो नित्यं तदर्थस्यानुचिन्तनम् ॥२५॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy