________________
कण्वस्मृतिः
२८८०
तस्मादध्ययनं नित्यं गायत्र्याः किल केवलम् । समीचीनोच्चारणैकहेतवे तस्य नान्यथा ॥२१८।। तस्मादेवं विधिःख्यातो गायत्रीग्रहणात्परम् । वेदैकाध्ययनं नित्यं तत्संस्कारैकहेतवे ॥२१६।। एवं सति तु यो मूढो गायत्रीग्रहणात्परम । अनधीत्यैव तं वेदमसंशोध्यैव तामपि ॥२२०।। गायत्रीं वर्णसंयुक्तामुच्चरेद्वंदवर्जनात् । श्रममन्यत्रकुरुते शास्त्रजाले वृथाश्रमी ॥२२।। वेदारतस्तुयोलोके सोऽस्वाधीनैकवाग्भवेत् । देवी स्वाधीनवाकप्रोक्तस्तेन मन्त्रादिकं सदा ॥२॥ सम्यगुच्चारणाच्चैव प्रभवेकिलसन्ततम् ।। सर्वदक्षस्तु वेदीस्यात्सर्वसिद्धिश्च तेन सः ।।२२।। प्रभवेदपि ते नैव इदं नित्यं समभ्यसेत् । वेदान्वेदी नचेद्वदं शाखामात्रं तु केवलम् ॥२०४।। अध्येतव्यं प्रयत्नेन नचंदब्राह्मणः स्मृतः । दुर्ब्राह्मणो वा नो चेत्तु ब्राह्मणव न संशयः ।।२२५।। अथवा ब्रह्मबन्धुःस्यात्तएते ब्रह्मयोनिजाः । स्वकृत्यतस्तुचत्वारस्तेषां लक्षणमुच्यते ॥२२६।। ब्रह्मवीर्यसमुत्पन्नः सम्यङ्मन्त्रैर्न संस्कृतः । अश्रोत्रियैकता तेन कर्माभासैकसंस्कृतः ॥२२७|| अब्राह्मणइतिप्रोक्तो मन्त्राभासजपादिकः । गर्भाधानादिसंस्कारचौलोपनयनैर्युतः ॥२२८।। .