________________
गायत्रीमन्त्रवैशिष्टयवर्णनम् २८७६ देवता हृदयं प्रोक्तं पुलिङ्गो देवईरितः। नपुंसके ब्रह्मविद्या तदेतदखिलंस्मृतम् ।।२०७।। गायत्र्यास्तु छन्दो वै गायत्र्येव न चेतरत्। विश्वामित्रमृषिः प्रोक्तो देवता सविता स्मृता ।।२०८।। मुखमग्निः समाख्यातश्शिखा ब्रह्म प्रकीर्तिता । नारायणस्तु हृदयं शिखारुद्रः समीरितः ॥२०६।। महामन्त्रस्य तस्यान्यवर्णग्रहणमात्रतः । ब्राह्मण्यं मुख्यतः प्रोक्त प्रथमं तु ततः पुनः ।।२१०|| स्वरवर्णसमीचीनसमुच्चारणतत्परम् । पौष्कल्यं तस्य संप्रोक्त राहित्यात्सुस्वरस्य तु ।।२१।। तदुर्ब्राह्मण्यमेवस्याल्लुप्रवणैरसुमध्यमे । अब्राह्मण्यं प्रकथितं तयोर्ब्राह्मण्ययोस्ततः ।।२१२।। परिहाराय यत्नेन कालेन महता शनैः । वेदाभ्यासमुखेनैव गायत्री गुरुवाक्यतः ॥२१३।। समीचीनां तु कृत्वमा प्रजपेन्नित्यमञ्जसा । संशोधनं तु गायच्या वेदाभ्यासः परो भवेत् ।।२१४।। वेदाभ्यासेन वाग्दोषाः दुष्टवर्णस्वरादिकाः । शनैश्शनैर्विनश्यन्ति वनवाचो भवन्ति च ॥२१५।। एतदथं पुरा ब्रह्मा तन्माध्याहिककर्मणि । हंसमन्त्रेणार्यमेकं गायत्र्याकल्पयत्प्रभुः ॥२१६।। तस्मिन्मन्त्रे समीचीनस्वाधीने सति तत्परम् । सम्यग्वक्तं हि शक्यन्ते मन्त्राः सर्वत्र कर्मणि ॥२१७।।