SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ कण्वस्मृतिः निग्रहानुग्रही सर्वमहिमासर्वपूज्यता। एतन्मूलानि सर्वाणि तस्मादेतं मनुं परम् ॥१७४।। यथाशास्त्रमधीत्यैव स्वरवर्णक्रमान्वितम् । सम्यगेव जपेद्विद्वान् त्रिसंध्यासु यथोक्तितः ॥१७॥ अस्यास्तु ब्रह्मविद्यायाः स्वरवर्णादिशून्यतः । संध्यात्रयीकरणतो ब्राह्मण्यं दूषितंतराम् ॥१७६।। दोषयुक्त च भवति वर्णोच्चारणतः परम् । सर्वस्वरादिशून्ये न व्यत्यासः स्वरतस्तथा ॥१७७|| तद्ब्राह्मण्यं ताहगेव भवेदेव न संशयः। एतन्मत्रं समीचीनं प्रोक्त कर्मणि वैकृते ॥१७८।। अर्थाः सर्वेऽपि शुध्यन्ति तब्राह्मण्यं च पुष्कलम् । अतिशुद्ध महच्छीमत् प्रभवेद्वीर्यवत्तरम् ॥१७६।। चतुर्विशतिवर्णाना मुक्तिमात्रेण केवलम् । आभासमात्रब्राह्मण्यं तत्र तिष्ठति केवलम् ॥१८०।। तस्मात्सम्यक्त्वरयुतं तन्मन्त्रं वेदचोदितम् । विप्रत्वसिद्धयेऽधीत्य संध्याकर्मणि सिद्धये ॥१८॥ ब्रह्मध्यानाय॑मात्रो यः पुरापद्मभुवाखिलाः । श्रुतयो विशदत्वेन ब्राह्मणानां प्रदर्शिताः ॥१८२।। तस्माद् वेदान्विधानेन सम्यग्गुरुमुखात्परम् । अधीत्याग्रं तदन्तस्थां गायत्री शिरसा सह ॥१८३।। नित्यमावर्तयेद्भक्त्या त्रिसंध्यासु महाशुचिः । भूत्वा नात्वा स्वरैस्तत्तद्वर्णकैरतिशोभनैः ॥१८४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy