________________
वायव्यास्नानस्यश्रेष्ठयत्ववर्णनम् २८७५ जलस्नानं सर्वथा चेदशक्तः कर्तु मेव वै । कायानुगुणतो यद्वा स्नानमेकं समाचरेत् ॥१६३।। बहुप्रोक्तषु सर्वेषु दिव्यस्नानं विशेषतः । दुर्लभं सर्वमेतद्धि गङ्गास्नानसमं हि तत् ।।१६४॥ न संकल्पादि तत्र स्यात्तर्पणं प्राणसंयमः । तथैवाचमनं वापि वायव्येऽपि तथैव च ॥१६॥ तत्तु प्रयत्नसाध्यं स्यात्सायं प्रातस्तथान्तरे । न वायव्यसमं स्नानं त्रिषु लोकेषु विद्यते ॥१६६।। तद्गङ्गास्नानतुलितं पञ्चपातकनाशनम् । उपपातकसंदोहनिर्मूलकरणक्षमम् ।।१६७।। ततस्सन्ध्यां प्रकुर्वीत शक्तः स्नानप्रपूर्विकाम् । नक्षत्रसहिता पूर्वा पश्चिमां सूर्यसंयुताम् ॥१६८।। असावादित्यमन्त्रेण ध्यानं तक्रियतेसदा । ब्राह्मणस्यैव संध्या स्यात्संधावक्षपामुखात् ।।१६।। सात्वर्घ्यपूर्वकर्ता स्याद्गायत्र्याय॑ त्रयं चरेत् । सम्यगुच्चार्य तां वर्णस्वरतः क्रमतस्तथा ॥१७०।। ब्राह्मण्यमूलं नैव स्यान्नान्यदस्ति जगत्त्रये । तन्मूलं तु ततस्साहि संध्यानां त्रितयेऽनिशम् ।।१७१।। जप्यात्यन्तैकनियमशतैर्यन्त्रशताधिकात् । एतन्मन्त्रजपेनैव ब्राह्मणानां महात्मनाम् ॥१७२।। सर्वलोकैकवन्द्यत्वं सर्वाचार्यत्वमेवच । वश्याकर्षणविद्वषस्तम्भनोच्चाटनादिकम् ॥१७३।।
.