________________
२८७२
कण्वस्मृतिः एककालस्य चित्तं स्यादेवं तत्कालसंख्यया । सम्यक्समीक्ष्य तत्कुर्यादन्यथा भ्रष्ट एव हि ॥१३०॥ भवेदेव न संदेहस्तदूध्वं चेत्तथाविधैः । पुनस्संस्कारताशुद्रो भविष्यति न चान्यथा ।।१३।। यदि प्रक्षालनं त्यक्त्वा मेहनस्य गुदस्य वा।। चरेद्विप्रो व्रात्यएव न संभाष्योऽखिलैरपि ॥१३२।। मोहना (त् ) क्षालनान्मासं मात्राद्यदिविपर्ययात् । भ्रष्टो भवेत्ततो भूयः पुनस्संस्कारतश्शुचिः ॥१३३।। यथार्थकथनान्नित्यं चित्ते कर्ता भवेन्न तु। बुद्धिपूर्वगुदप्रक्षालनशून्योऽभक्षणे ॥१३४॥ जाते तु सद्यः पतितस्तद्यथार्थोक्तितः परम् । आषण्मासाच्चित्तकर्मकर्तुं शक्यं ततः परम् ॥१३५।। पतितो नात्र सन्देहश्चित्तं तस्य च चोदितम् । पुनर्गर्भविधानेन पुनः संस्कारतस्तराम् ॥१३६।। शुद्धिः प्रकथिता सद्भिस्तप्तस्यैव न चान्यथा । कृत्वा तु तादृशं कर्म न कृतं चेति वक्ष्यति ॥१३७।। संत्याज्य एव सततं न योग्यो यस्य कस्यचित् । चरणौ च करौ सम्यक् प्रक्षाल्य च ततः परम् ॥१३८।। नाचामेद्यदि तूष्णीकं भवेन्नात्रसंशयः। पुनः प्रक्षाल्याचामेश्च तो पापस्य विशुद्धये ॥१३६।। अनाचम्यैव यो मोहाद्व दवणं समुचरेत् । भ्रूणहत्यामवाप्नोति तत्पापविनिवृत्तये ॥१४०।।