________________
पाने भक्षणेच शब्देकृतेप्रायश्चित्तवर्णनम् २८६६ तद्दोषपरिहाराय गायत्रीं त्रिशतं जपेत् । एवमाचमने प्रोक्त जलपाने च भोजने ॥६७|| भक्षणे चापि भक्ष्याणां खाद्यानामपि खादने । भोज्यानां भोजने चापि तथा वै लेह्यचोष्ययोः ॥१८॥ अशब्दं सर्वतः कुर्वन् तत्तत्कर्म समाचरेत् । यदि शब्दं तथा कुर्वन् सद्यो निरयमृच्छति ॥६| तदोषपरिहाराय पूर्वचित्तं समाचरेत् । विशेषतस्तक्रदधिपयोदधिघृतादिषु ॥१००।। यदि शब्दः समुत्पन्नः पाने वा भक्षणे यदि । महाननों भवेत्सद्यः तद्रव्यं मद्यमेव हि ॥१०॥ भवेदेव न सन्देहस्तस्य चित्तं ततस्त्बिदम् । पक्षं तु यावकाहारो निराहारो दिनत्रयम् ॥१०॥ अष्टानां वा चतुष्णा वा ब्राह्मणानां च भोजनम् । कुर्यादेव न संदेहोऽथवा गायत्रमाचरेत् ॥१०३।। त्रिसहस्रजपं मासं संहितात्रयमेव वा। चित्तं तत्कथितं तस्मान्न तत्कुर्यात्तथा द्विजः ॥१०४।। नित्यं मूत्रपुरीषादिकर्मस्वेषु प्रचोदितम् । यत्र यत्र ह्याचमनं द्वयं (तत्र) तत्र परो विधिः ॥१०॥ अयमेव समाख्यातः प्रथमाचमने खलु । मन्त्रो मानसिकः कार्यः कदाचिन्न तु वाच(चि)कः ।।१०६।। द्वितीयाचमने सम्यमन्त्रोच्चारस्तु वाचिकः । न मानसः कदा कार्यः प्रथमे तु तथा चरेत् ॥१०७।।