________________
प्रातःस्मरणेकीर्त्यानांवर्णनम्
२८६७ गन्धमादनसंज्ञं च लोकालोकं गिरीश्वरम् । हिमवन्तं च कैलासं पुनरन्याञ्छुभाकरान् ॥७॥ पतिव्रताः पार्वतीम्बा अहल्या द्रौपदी शिवाम् । तारां मन्दोदरी पुण्यां नित्यकल्याणसुन्दरीम् ॥७६।। सीतामरुन्धती लक्ष्मी भारती परमेश्वरीम् । इन्द्राणींपुनरन्याश्च नित्यकल्याणमूर्तिकाः ॥७७|| ब्रह्मनिष्ठान्महाभागान्ब्राह्मणान्संशितव्रतान् । लोकपालान्लोकनाथान्ब्रह्मविष्णुमहेश्वरान् ॥७॥ स्मृत्वा ब्रह्मक्यसंधानं कृत्वा ब्रह्माहमित्यपि । सर्वेभ्यश्च नमस्कुर्यान्नमो महद्भ्यइति वै वदेत् ।।७।। तत्र ध्यानादि(?)स्मरणयोः कालादिनियमो नहि। यदावकाशो लभते तदानित्यं तु शक्यते ॥८॥ कतुं किलाथ च पुनः प्रातश्चेत्तद्विशिष्यते । पादप्रक्षालनं नित्यं पश्चिमाभिमुखश्चरेत् ॥८॥ यद्यन्यथाकृतं तत्तु तदाम्भस्तत्क्षणे परम् । मूत्रमेव भवेन्नूनं दक्षिणाभिमुखात्कृते ॥८॥ . उदगाभिमुखे चेत्तु तज्जलं रक्तमेव हि । प्राकतु चेत्तजलं मद्यतत्स्पृष्टोऽयं हि जायते ॥८३।। पादप्रक्षालनं पश्चात्पश्चिमाभिमुखेन हि । कर्तव्यं सततं यत्नान्नान्यया हरिता कचित् ॥४॥ सार्वकालिकधर्मोऽयं सार्ववणिक एव च। ... वैदिको निखिलो भूयो नूनं निश्चिनुताऽधुना ।।८।।